horizontal rule

鍏虫敞鍏紬鍙凤紝闃呰鍏ㄩ儴鐜拌娉曞緥銆佽鏀挎硶瑙勭瓑锛屼簡瑙f渶鏂版硶寰嬭祫璁紝杩樻湁鏇村

张律师欢迎您的访问。

Vajracchedika Prajna Paramita 10 般若波罗蜜多心经玄奘译) Sūtra du Cœur Heart Sutra

金刚经

The Diamond Sutra

यश्च खलु पुनः सुभूते स्त्री वा पुरुषो वा पुर्वाह्णकालसमये गङ्गानदीवालुकासमानात्मभावान् परित्यजेत्, एवं मध्याह्नकालसमये गङ्गानदीवालुकासमानात्मभावान् परित्यजेत्, सायाह्नकालसमये गङ्गानदीवालुकासमानात्मभावान् परित्यजेत्, अनेन पर्यायेण बहूनि कल्पकोटिनियुतशतसहस्राण्यात्मभावान् परित्यजेत्, यश्चेमं धर्मपर्यायं श्रुत्वा न प्रतिक्षिपेत्, अयमेव ततोनिदानं बहुतरं पुण्यस्कन्धं प्रसुनुयादप्रमेयमसंख्येयम्, कः पुनर्वादो यो लिखित्वा उद्गृह्णीयाद्धारयेद्वाचयेत्पर्यवाप्नुयात्, परेभ्यश्च विस्तरेण संप्रकाशयेत्॥



अपि तु खलु पुनः सुभूते अचिन्त्योऽतुल्योऽयं धर्मपर्यायः। अयं च सुभूते धर्मपर्यायस्तथागतेन भाषितोऽग्रयानसंप्रस्थितानां सत्त्वानामर्थाय, श्रेष्ठयानसंप्रस्थितानां सत्त्वानामर्थाय। ये इमं धर्मपर्यायमुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, ज्ञातास्ते सुभूते तथागतेन बुद्धज्ञानेन, दृष्टास्ते सुभूते तथागतेन बुद्धचक्षुषा, बुद्धास्ते तथागतेन। सर्वे ते सुभूते सत्त्वा अप्रमेयेण पुण्यस्कन्धेनां समन्वागता भविष्यन्ति। अचिन्त्येनातुल्येनामाप्येनापरिमाणेन पुण्यस्कन्धेन समन्वागता भविष्यन्ति। सर्वे ते सुभूते सत्त्वाः समांशेन बोधिं धारयिष्यन्ति वचयिष्यन्ति पर्यवाप्स्यन्ति। तत्कस्य हेतोः ? न हि शक्यं सुभूते अयं धर्मपर्यायो हीनाधिमुक्तिकैः सत्त्वैः श्रोतुम्, नात्मदृष्टिकैर्न सत्त्वदृष्टिकैर्न जीवदृष्टिकैर्न पुद्गलदृष्टिकैः। नाबोधिसत्त्वप्रतिज्ञै सत्त्वैः शक्यमयं धर्मपर्यायः श्रोतुं वा उद्ग्रहीतुं वा धारयितुं वा वाचयितुं वा पर्यवाप्तुं वा। नेदं स्थानं विद्यते॥



अपि तु खलु पुनः सुभूते यत्र पृथिवीप्रदेशे इदं सूत्रं प्रकशयिष्यते, पूजनीयः स पृथिवीप्रदेशो भविष्यति सदेवमानुषासुरस्य लोकस्य। वन्दनीयः प्रदक्षिणीयश्च स पृथिवीप्रदेशो भविष्यति, चैत्यभूतः स पृथिवीप्रदेशो भविष्यति॥१५॥

अपि तु ये ते सुभूते कुलपुत्रा वा कुलदुहितरो वा इमानेवंरूपान् सूत्रान्तानुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, योनिशश्च मनसिकरिष्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, ते परिभूता भविष्यन्ति, सुपरिभूताश्च भविष्यन्ति। तत्कस्य हेतोः ? यानि च तेषां सुभूते सत्त्वानां पौर्वजन्मिकान्यशुभानि कर्माणि कृतान्यपायसंवर्तनीयानि, दृष्ट एव धर्मे परिभूततया तानि पौर्वजन्मिकान्यशुभानि कर्माणि क्षपयिष्यन्ति, बुद्धबोधिं चानुप्राप्स्यन्ति॥



अभिजानाम्यहं सुभूते अतीतेऽध्वन्यसंख्येयैः कल्पैरसंख्येयतरैर्दीपंकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य परेण परतरेण चतुरशीतिबुद्धकोटिनियुतशतसहस्राण्यभूवन् ये मयारागिताः, आराग्य न विरागिताः। यच्च मया सुभूते ते बुद्धा भगवन्त आरागिताः, आराग्य न विरागिताः, यच्च पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चशत्यां सद्धर्मविप्रलोपकाले वर्तमाने इमानेवंरूपान् सूत्रान्तानुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, अस्य खलु पुनः सुभूते पुण्यस्कन्धस्यान्तिकादसौ पौर्वकः पुण्यस्कन्धः शततमीमपि कलां नोपैति, सहस्रतमीमपि शतसहस्रतमीमपि कोटिममिपि कोटिशततमीमपि कोटिशतसहस्रतमीमपि कोटिनियुतशतसहस्रतमीमपि। संख्यामपि कलामपि गणनामपि उपमामपि उपनिषदमपि यावदौपम्यमपि न क्षमते॥



सचेत्पुनः सुभूते तेषां कुलपुत्राणां कुलदुहितॄणां वा अहं पुण्यस्कन्धं भाषेयम्, यावत्ते कुलपुत्रा वा कुलदुहितरो वा तस्मिन् समये पुण्यस्कन्धं प्रसविष्यन्ति, प्रतिग्रहीष्यन्ति, उन्मादं सत्त्वा अनुप्राप्नुयुश्चित्तविक्षेपं वा गच्छेयुः। अपि तु खलु पुनः सुभूते अचिन्त्योऽतुल्योऽयं धर्मपर्यायस्तथागतेन भाषितः। अस्य अचिन्त्य एव विपाकः प्रतिकाङ्क्षितव्यः॥१६॥



अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-कथं भगवन् बोधिसत्त्वयानसंप्रस्थितेन स्थातव्यम्, कथं प्रतिपत्तव्यम्, कथं चित्तं प्रग्रहीतव्यम् ? भगवानाह-इह सुभूते बोधिसत्त्वयानसंप्रस्थितेन एवं चित्तमुत्पादयितव्यम्-सर्वे सत्त्वा मया अनुपधिशेषे निर्वाणधातौ परिनिर्वापयितव्याः। एवं स सत्त्वान् परिनिर्वाप्य न कश्चित्सत्त्वः परिनिर्वापितो भवति। तत्कस्य हेतोः ? सचेत्सुभूते बोधिसत्त्वस्य सत्त्वसंज्ञा प्रवर्तेत, न स बोधिसत्त्व इति वक्तव्यः। जीवसंज्ञा वा यावत्पुद्गलसंज्ञा वा प्रवर्तेत, न स बोधिसत्त्व इति वक्तव्यः। तत्कस्य हेतोः ? नास्ति सुभूते स कश्चिद्धर्मो यो बोधिसत्त्वयानसंप्रस्थितो नाम॥



तत्किं मन्यसे सुभूते अस्ति स कश्चिद्धर्मो यस्तथागतेन दीपंकरस्य तथागतस्यान्तिकादनुत्तरां सम्यक्संबोधिमभिसंबुद्धः ? एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- यथाहं भगवतो भाषितस्यार्थमाजानामि, नास्ति स भगवन् कश्चिद्धर्मो यस्तथागतेन दीपंकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकादनुत्तरां सम्यक्संबोधिमभिसंबुद्धः। एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-एवमेतत्सुभूते, एवमेतत्। नास्ति सुभूते स कश्चिद्धर्मो यस्तथागतेन दीपंकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकादनुत्तरां सम्यक्संबोधिमभिसंबुद्धः। सचेत्पुनः सुभूते कश्चिद्धर्मस्तथागतेनाभिसंबुद्धोऽभविष्यत्, न मां दीपंकरस्तथागतो व्याकरिष्यत्-भविष्यसि त्वं माणव अनागतेऽध्वनि शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्संबुद्ध इति। यस्मात्तर्हि सुभूते तथागतेनार्हता सम्यक्संबुद्धेन नास्ति स कश्चिद्धर्मो योऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः, तस्मादहं दीपंकरेण तथागतेन व्याकृत- भविष्यसि त्वं माणव अनागतेऽध्वनि शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्संबुद्ध। तत्कस्य हेतोः ? तथागत इति सुभूते भूततथताया एतदधिवचनम्। तथागत इति सुभूते अनुत्पादधर्मताया एतदधिवचनम्। तथागत इति सुभूते धर्मोच्छेदस्यैतदधिवचनम्। तथागत इति सुभूते अत्यन्तानुत्पन्नस्यैतदधिवचनम्। तत्कस्य हेतोः ? एष सुभूते अनुत्पादो यः परमार्थः। यः कश्चित्सुभूते एवं वदेत्-तथागतेनार्हता सम्यक्संबुद्धेन अनुत्तरा सम्यक्संबोधिरभिसंबुद्धेति, स वितथं वदेत्। अभ्याचक्षीत मां स सुभूते असतोद्गृहीतेन। तत्कस्य हेतोः- ? नास्ति सुभूते स कश्चिद्धर्मो यस्तथागतेन अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः। यश्च सुभूते तथागतेन धर्मोऽभिसंबुद्धो देशितो वा तत्र न सत्यं न मृषा। तस्मात्तथागतो भाषते-सर्वधर्मा बुद्धधर्मा इति। तत्कस्य हेतोः ? सर्वधर्मा इति सुभूते अधर्मास्तथागतेन भाषिताः। तस्मादुच्यन्ते सर्वधर्मा बुद्धधर्मा इति॥



तद्यथापि नाम सुभूते पुरुषो भवेदुपेतकायो महाकायः ? आयुष्मान् सुभूतिराह- योऽसौ भगवंस्तथागतेन पुरुषो भाषित उपेतकायो महाकाय इति, अकायः स भगवंस्तथागतेन भाषितः। तेनोच्यते उपेतकायो महाकाय इति॥

भगवानाह -एवमेतत्सुभूते। यो बोधिसत्त्व एवं वदेत्-अहं सत्त्वान् परिनिर्वापयिष्यामिति, न स बोधिसत्त्व इति वक्तव्यः। तत्कस्य हेतोः ? अस्ति सुभूते स कश्चिद्धर्मो यो बोधिसत्त्वो नाम ? सुभूतिराह-नो हीदं भगवन्। नास्ति स कश्चिद्धर्मो यो बोधिसत्त्वो नाम। भगवानाह- सत्त्वाः सत्त्वा इति सुभूते असत्त्वास्ते तथागतेन भाषिताः, तेनोच्यन्ते सत्त्वा इति। तस्मात्तथागतो भाषते-निरात्मानः सर्वधर्मा निर्जीवा निष्पोषा निष्पुद्गलाः सर्वधर्मा इति॥



यः सुभूते बोधिसत्त्व एवं वदेत्- अहं क्षेत्रव्यूहान्निष्पादयिष्यामीति, स वितथं वदेत्। तत्कस्य हेतोः ? क्षेत्रव्यूहाः क्षेत्रव्यूहा इति सुभूते अव्यूहास्ते तथागतेन भाषिताः। तेनोच्यन्ते क्षेत्रव्यूहा इति॥



यः सुभूते बोधिसत्त्वो निरात्मानो धर्मा निरात्मानो धर्मा इत्यधिमुच्यते, तथागतेनार्हता सम्यक्संबुद्धेन बोधिसत्त्वो महासत्त्व इत्याख्यातः॥१७॥



भगवानाह-तत्किं मन्यसे सुभूते-संविद्यते तथागतस्य मांसचक्षुः ? सुभूतिराह- एवमेतद्भगवन्, संविद्यते तथागतस्य मांसचक्षुः। भगवानाह-तत्किं मन्यसे सुभूते संविद्यते तथागतस्य दिव्यं चक्षुः ? सुभूतिराह-एवमेतद्भगवन्, संविद्यते तथागतस्य दिव्यं चक्षुः। भगवानाह-तत्किं मन्यसे सुभूते संविद्यते तथागतस्य प्रज्ञाचक्षुः ? सुभूतिराह-एवमेतद्भगवन्, संविद्यते तथागतस्य प्रज्ञाचक्षुः। भगवानाह-तत्किं मन्यसे सुभूते संविद्यते तथागतस्य धर्मचक्षुः ? सुभूतिराह-एवमेतद्भगवन्, संविद्यते तथागतस्य धर्मचक्षुः। भगवानाह- तत्किं मन्यसे सुभूते संविद्यते तथागतस्य बुद्धचक्षुः ? सुभूतिराह-एवमेतद्भगवन्, संविद्यते तथागत बुद्धचक्षुः।



भगवानाह-तत्किं मन्यसे सुभूते यावन्त्यो गङ्गायां महानद्यां वालुकाः, अपि नु ता वालुकास्तथागतेन भाषिताः ? सुभूतिराह-एवमेतद्भगवन्, एवमेतत् सुगत। भाषितास्तथागतेन वालुकाः। भगवानाह-तत्किं मन्यसे सुभूते यावत्यो गङ्गायां महानद्यां वालुकाः, तावत्य एव गङ्गानद्यो भवेयुः, तासु वा वालुकाः, तावन्तश्च लोकधातवो भवेयुः, कच्चिद्बहवस्ते लोकधातवो भवेयुः ? सुभूतिराह-एवमेतद्भगवन्, एवमेतत् सुगत। बहवस्ते लोकधातवो भवेयुः। भगवानाह-यावन्तः सुभूते तेषु लोकधातुषु सत्त्वाः, तेषामहं नानाभावां चित्तधारां प्रजानामि। तत्कस्य हेतोः ? चित्तधारा चित्तधारेति सुभूते अधारैषा तथागतेन भाषिता, तेनोच्यते चित्तधारेति। तत्कस्य हेतोः ? अतीतं सुभूते चित्तं नोपलभ्यते। अनागतं चित्तं नोपलभ्यते। प्रत्युत्पन्नं चित्तं नोपलभ्यते॥१८॥



तत्किं मन्यसे सुभूते यः कश्चित्कुलपुत्रो वा कुलदुहिता वा इमं त्रिसाहस्रमहासाहस्रं लोकधातुं सप्तरत्नपरिपूर्णं कृत्वा तथागतेभ्योऽर्हद्भयः सम्यक्संबुद्धेभ्यो दानं दद्यात्, अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यस्कन्धं प्रसुनुयात् ? सुभूतिराह- बहु भगवन्, बहु सुगत। भगवानाह-एवमेतत्सुभूते, एवमेतत्। बहु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं पुण्यस्कन्धं प्रसुनुयादप्रमेयमसंख्येयम्। तत्कस्य हेतोः ? पुण्यस्कन्धः पुण्यस्कन्ध इति सुभूते अस्कन्धः स तथागतेन भाषितः। तेनोच्यते पुण्यस्कन्ध इति। सचेत् पुनः सुभूते पुण्यस्कन्धोऽभविष्यत्, न तथागतोऽभाषिष्यत् पुण्यस्कन्धः पुण्यस्कन्ध इति॥१९॥

相关阅读:prajñāpāramita-hṛdayam sūtra

Vajracchedika Prajna Paramita 20 心经注解 灵根育孕源流出 心性修持大道生-西游记-四大名著-培训网

张律师感谢您的访问。

瀹硶 娉曞緥 琛屾斂娉曡 鍦版柟娉曡 澧冨娉曡 鍙告硶瑙i噴 鍏稿瀷妗堜緥 鍥介檯娉曞強鍥介檯鎯緥

铏氫綅浠ュ緟 甯稿勾娉曞緥椤鹃棶锛氫綍姝㈡槸浼佷笟鐨勪繚鍋ュ尰鐢�